(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.57. अध्यायः 057
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-57-0x(4123)(41093)
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च।
धनञ्जयो रथानीकमवधीत्तव भारत ॥ 6-57-1(41094)
शरैरथिरथो युद्धे दारयन्रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥ 6-57-2(41095)
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ॥ 6-57-3(41096)
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ॥ 6-57-4(41097)
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ॥ 6-57-5(41098)
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्।
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥ 6-57-6(41099)
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे।
अवर्तत तदा युद्धं तत्र तत्र विशांपते ॥ 6-57-7(41100)
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥ 6-57-8(41101)
तथैव पाण्डवानां च रक्षितः सव्यसाचिना।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥ 6-57-9(41102)
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ 6-57-10(41103)
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥ 6-57-11(41104)
रथी रथिनमासाद्य शरैः कनकभूषणैःक ।
पातयामास समरे तस्मिन्नतिभयंकरे ॥ 6-57-12(41105)
गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥ 6-57-13(41106)
कश्चिदुत्पत्य समरे वस्वारणमास्थितः ।
केशपक्षे परामृश्य जहार समरे शिरः ॥ 6-57-14(41107)
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥ 6-57-15(41108)
कश्चित्करिविषाणस्थो वीरो रणविशारदाः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥ 6-57-16(41109)
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः ।
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥ 6-57-17(41110)
रथी च समरे राजन्नासाद्य गजयूथपम् ।
स गजं पातयामास गजी च रथिनां वरम् ॥ 6-57-18(41111)
रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ॥ 6-57-19(41112)
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ 6-57-20(41113)
गजारोहा हयारोहान्पातयांचक्रिरे तदा।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ 6-57-21(41114)
गजारोहवरैश्चापि तत्रतत्र पदातयः।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ 6-57-22(41115)
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 6-57-23(41116)
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ 6-57-24(41117)
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ 6-57-25(41118)
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ 6-57-26(41119)
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 6-57-27(41120)
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥ 6-57-28(41121)
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ 6-57-29(41122)
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ 6-57-30(41123)
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥ 6-57-31(41124)
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः।
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥ 6-57-32(41125)
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत॥ 6-57-33(41126)
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ 6-57-34(41127)
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ॥ 6-57-35(41128)
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि।
व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ॥ 6-57-36(41129)
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।
अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ 6-57-38aतथैव पाण्डवाः सर्वे महत्या सेनया सह ।
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥ 6-57-37(41130)
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ 6-57-39(41131)
ततः प्रववृते भूयः संग्रामो रोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ॥ ॥ 6-57-40(41132)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-57-3 मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ॥ 6-57-7 अनुमानेन ध्वजादिचिह्नेन। संज्ञाभि संकेतैश्च ॥ 6-57-26 परिकस्तोमैश्चित्रकम्बलैः । कुथाभिस्तैरेव क्षुद्रैः । कम्बलै राङ्कवैः । महाधनैर्महामूल्यैः ॥ 6-57-36 महामात्राः प्रधानाः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.